________________
Jain Education
201
॥ श्रीधर्मबिन्दुप्रकरणम् ॥ ८ ॥
॥ अथ प्रथमोऽध्यायः ॥ प्रणम्य परमात्मानं, समुद्धृत्य श्रुतार्णवात् ॥ धर्मविन्दुं प्रवक्ष्यामि, तोयबिन्दुमिवोदधेः ॥ १ ॥ धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः ॥ धर्म एवापवर्गस्य, पारम्पर्येण साधकः ||२|| वचनाद्यदनुष्ठान - मविरुद्धाद्यथोदितम् ॥ मैत्र्यादिभावसंयुक्तं, तद्धर्म इति कीर्त्यते ॥ ३॥ सोऽयमनुष्ठातृभेदात् द्विविधो-गृहस्थधर्मो यतिधर्मश्चेति ॥ १ ॥ तत्र च गृहस्थधर्मोऽपि द्विविधः - सामान्यतो विशेषतश्चेति ॥२॥ तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानमिति ॥ ३ ॥ न्यायोपात्तं हि वित्तमुभयलोकहितायेति ॥ ४॥ अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाचेति ॥ ५ ॥ अहितायैवान्यदिति || ६ || तदनपायित्वेऽपि मत्स्यादिगलादिवद्वि पाकदारुणत्वात् इति ॥ ७ ॥ न्याय एव ह्यर्थाप्त्युपनिषत्परेति समयविद इति ॥ ८ ॥ ततो हि नियमतः प्रतिबन्धककर्मविगम इति ॥ ९ ॥ सत्यस्मिन्नाय - त्यामर्थसिद्धिरिति ॥ १० ॥ अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो, निःसंशयस्त्वनर्थ इति ॥ ११ ॥ तथासमानकुलशीलादिभिरगोत्रजैर्वैवाद्यमन्यत्र बहुविरुद्धेभ्य इति ॥ १२ ॥ तथा दृष्टादृष्टबाधा भीतता इति ॥ १३ ॥ तथा-शिष्टचरितप्रशंसनमिति ॥ १४ ॥ तथा-अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजय इति
१८
For Personal & Private Use Only
www.jainelibrary.org