SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥ ७ ॥ श्री लोकतत्त्वनिर्णय ग्रन्थः ॥ ॥ १०२ ॥ Jain Education २०० परित्याज्याः || १३५ || मुक्तो वाऽमुक्तो वा ऽस्ति तत्र मूर्त्तोऽथवा जगत्कर्त्ता । सदसद्वापि करोति हि, न युज्यते सर्वथा करणम् ॥ १३६ ॥ मुक्तो न करोति जग-न्न कर्मणा बध्यते विगतरागः । रागादियुतः सतनुनिबध्यते कर्मणाऽवश्यम् || १३७ || ज्ञानचरित्रादिगुणैः, संसिद्धाः शाश्वताः शिवाः सिद्धौ । तनुकरणकर्मरहिता, बहवस्तेषां प्रभुर्नास्ति ॥ १३८ ॥ कर्मजनितं प्रभुत्वं; संसारे क्षेत्रतश्च तद्भिन्नम् । प्रभुरेकस्तनुरहितः कर्त्ता च न विद्यते लोके ||१३९|| अवगाहाकृतिरूपैः, स्थैर्यस्वभावेन शाश्वते लोके । कृतकत्वमनित्यत्वं, मेर्वादीनां न सम्भवति ॥ १४० ॥ गुणवृद्धिहानिचित्रा, कैश्चिन्न मही कृता न लोकश्च । इति सर्वमिदं प्राहुः, | त्रिष्वपि लोकेषु सर्वविदः ॥ १४१ ॥ अद्धाचक्रमनीशं, ज्योतिश्चक्रं च जीवचक्रं च । नित्यं पुनन्ति लोका-नुभावकर्मानुभावाभ्याम् ॥ १४२ ॥ चन्द्रादित्यसमुद्रा-स्त्रिष्वपि लोकेषु नातिवर्त्तन्ते । प्रकृतिप्रमाणमात्मायमित्युवाचोत्तमज्ञानम् ॥ १४३ ॥ सर्वाः पृथिव्यश्च समुद्रशैलाः, सस्वर्गसिद्धालयमन्तरीक्षम् । अकृत्रिमः शाश्वत एष लोकः, अतो (तो) बहिर्यत्तदलौकिकं तु ॥ १४४ ॥ प्रकृतीश्वरौ विधानं, कालः सृष्टिर्विधिश्चदैवं च । इति नामघनो लोकः, स्वकर्मतः संसरत्यवशः ॥ १४५ ॥ कर्मानुभावनिर्मित- नैकाकृतिजीवजातिगहनस्य | लोकस्यास्य न पर्यवसानं नैवादिभावश्च ।। १४६ || तस्मादनादिनिधनं व्यसनोरुभीमं, जन्मा|रदोषदृढनेम्यतिरागतुम्बम् । घोरं स्वकर्मपवनेरितलोकचक्रं भ्राम्यत्यनारतमिदं किमिहेश्वरेण ॥ १४७ ॥ ॥ श्रीलोकतत्त्वनिर्णयः सम्पूर्णः || For Personal & Private Use Only यथार्थतत्त्व निरूपणे जगत्कर्तृत्वनिरासः॥ ॥ १०२ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy