SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 193 यथार्थतत्त्व निरूपणे जगत्कर्टत्वनिरासः॥ दानां, देहाभावे च सम्भवो नास्ति। ईहापोहाभाव-स्तदभावेसम्भवाभावः॥१२२॥ तदभावेऽस्ति न चिन्ता, चिन्ताभावे क्रियागुणो नास्ति। कर्तृत्वमनुपपन्नं, क्रियागुणानामसम्भवतः॥१२३।। तेन कृतं यदि च जगत्, स कृतः केनाकृतोऽप्यबुद्धिर्वः । विज्ञेयः सत्येवं, भवप्रपञ्चोऽपि तद्वदिह ॥१२४॥ अभ्युपगम्येदानी, जगतः सृष्टिर्वदामहे नास्ति । पुरुषार्थ ः कृतकृत्यो, न करोत्याप्तो जगत् कलुषम् ॥१२५।। अपकारः प्रेताद्यैः, कस्तस्य कृतः सुरादिभिः किं वा । संयोजिता यदेते, सुखदुःखाभ्यामहेतुभ्याम् ।। १२६ ॥ तुल्ये सति सामर्थ्ये, किं न कृतो वित्तसंयुतो लोकः । येन कृतो बहुदुःखो, जन्मजरामृत्युपथि लोकः ।।१२७॥ यदि तेन कृतो लोको, भूयोपि किमस्य सङ्ख्यः क्रियते । उत्पादितः किमर्थ, यदि सक्षेपणीय एवासौ ॥ १२८ ॥ का सङ्क्षितेन गुणः, को वा सृष्टेन तस्य लोकेन । को वा जन्मादिकृतं, दुःखं सम्पापितैः सत्त्वैः ॥ १२९ ।। भूतानुगतशरीरः, कुम्भाद्यं कुम्भकृदाथा कृत्वा । असकृद्भिनत्ति तद्वत्, कर्त्ता भूतानि निस्त्रिंशः॥१३०॥ भवसम्भवदुःखकरं, निष्कारणवैरिणं सदा जगतः। कस्ते ब्रजेच्छरण्यं, सूरिः श्रेयोऽर्थमतिपापम् ॥१३१॥ स्वकृतं जगत्क्षपयतः, तस्य न बन्धोऽस्ति बुद्धिरन्येषाम् । किं न भवति पुत्रवधे, बन्धः पितुरुग्रचित्तस्य ॥१३२॥ जगतः प्रागुत्पत्ति-यदि कर्तुर्विग्रहात्कथं तद्वत् । अधुना न भवति तस्यै-व विग्रहात्सम्भवस्तस्य ॥१३३॥ विविधासु यथा योनिषु, सत्त्वानां साम्प्रतं समुत्पत्तिः । नित्यं तथैव सिद्धिः, प्राहुलॊकस्थितिविधिज्ञाः॥१३४॥ एवं विचार्यमाणाः, सृष्टिविशेषाः परस्परविरुद्धाः । हरिहरविचारतुल्या, युक्तिविहीनाः Jain Education in For Personal & Private Lise Only Alww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy