________________
193
यथार्थतत्त्व निरूपणे जगत्कर्टत्वनिरासः॥
दानां, देहाभावे च सम्भवो नास्ति। ईहापोहाभाव-स्तदभावेसम्भवाभावः॥१२२॥ तदभावेऽस्ति न चिन्ता, चिन्ताभावे क्रियागुणो नास्ति। कर्तृत्वमनुपपन्नं, क्रियागुणानामसम्भवतः॥१२३।। तेन कृतं यदि च जगत्, स कृतः केनाकृतोऽप्यबुद्धिर्वः । विज्ञेयः सत्येवं, भवप्रपञ्चोऽपि तद्वदिह ॥१२४॥ अभ्युपगम्येदानी, जगतः सृष्टिर्वदामहे नास्ति । पुरुषार्थ ः कृतकृत्यो, न करोत्याप्तो जगत् कलुषम् ॥१२५।। अपकारः प्रेताद्यैः, कस्तस्य कृतः सुरादिभिः किं वा । संयोजिता यदेते, सुखदुःखाभ्यामहेतुभ्याम् ।। १२६ ॥ तुल्ये सति सामर्थ्ये, किं न कृतो वित्तसंयुतो लोकः । येन कृतो बहुदुःखो, जन्मजरामृत्युपथि लोकः ।।१२७॥ यदि तेन कृतो लोको, भूयोपि किमस्य सङ्ख्यः क्रियते । उत्पादितः किमर्थ, यदि सक्षेपणीय एवासौ ॥ १२८ ॥ का सङ्क्षितेन गुणः, को वा सृष्टेन तस्य लोकेन । को वा जन्मादिकृतं, दुःखं सम्पापितैः सत्त्वैः ॥ १२९ ।। भूतानुगतशरीरः, कुम्भाद्यं कुम्भकृदाथा कृत्वा । असकृद्भिनत्ति तद्वत्, कर्त्ता भूतानि निस्त्रिंशः॥१३०॥ भवसम्भवदुःखकरं, निष्कारणवैरिणं सदा जगतः। कस्ते ब्रजेच्छरण्यं, सूरिः श्रेयोऽर्थमतिपापम् ॥१३१॥ स्वकृतं जगत्क्षपयतः, तस्य न बन्धोऽस्ति बुद्धिरन्येषाम् । किं न भवति पुत्रवधे, बन्धः पितुरुग्रचित्तस्य ॥१३२॥ जगतः प्रागुत्पत्ति-यदि कर्तुर्विग्रहात्कथं तद्वत् । अधुना न भवति तस्यै-व विग्रहात्सम्भवस्तस्य ॥१३३॥ विविधासु यथा योनिषु, सत्त्वानां साम्प्रतं समुत्पत्तिः । नित्यं तथैव सिद्धिः, प्राहुलॊकस्थितिविधिज्ञाः॥१३४॥ एवं विचार्यमाणाः, सृष्टिविशेषाः परस्परविरुद्धाः । हरिहरविचारतुल्या, युक्तिविहीनाः
Jain Education in
For Personal & Private Lise Only
Alww.jainelibrary.org