SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ॥७॥ भी लोकबच्चनिर्णय ग्रन्थः ॥ ॥ १०१ ॥ Jain Education li 198 कोsयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं ह्येतदू (पश्य), यद्वदन्ति बहुश्रुताः ॥ १०८ ॥ तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनाः । अग्निहोत्रादिकं कर्म, बालक्रीडेव लभ्यते ॥ १०९ ॥ कारणानि विभिन्नानि, कार्याणि च यतः पृथक् । तस्मात्त्रिष्वपि कालेषु, नैव कर्मास्ति निश्चयः ॥ ११० ॥ तेषामेवानिर्ज्ञात- मसदृशं सृष्टिवादिनामिष्टम् । एतद्युक्तिविरुद्धं यथा तथा सम्प्रवक्ष्यामि ॥ १११ ॥ सदसज्जगदुत्पत्तिः, पूर्वस्मात्कारणात् सतो नास्ति । असतो हि नास्ति कर्त्ता, सदसद्भयां सम्भवाभावात् ॥ ११२॥ यद्सत्तस्योत्पत्ति-स्त्रिष्वपि कालेषु निश्चितं नास्ति । खरशृङ्गमुदाहरणं, तस्मात्स्वाभाविको लोकः ॥ ११३॥ मूर्त्ताऽमूर्त्तं द्रव्यं सर्वं न विनाशमेति नान्यत्वम् । यद्वेत्येतत्प्रायः, पर्यायविनाशि जैनानाम् ॥ ११४॥ काश्यपदक्षादीनां यदभिप्रायेण जायते लोकः। लोकाभावे तेषा - मस्तित्वं संस्थितं कुत्र ? ॥ ११५ ॥ सर्वं धराम्बराद्यं, याति विनाशं यदा तदा लोकः । किं भवति बुद्धिरव्यक्त- माहितं तस्य किं रूपम् ॥ ११६ ॥ यदमूर्त्त मूर्त्त वा, स्वलक्षणं विद्यते स्वलक्षणतः । तद्व्यक्तं निर्दिष्टं, सर्वं सर्वोत्तमादेशः ॥ ११७ ॥ द्रव्यमरूप्यम (मिहारूप्य) रूपि च, यदिहास्ति हि तत्स्वलक्षणं सर्वम् । तल्लक्षणं न यस्य तु तद्वन्ध्यापुत्रवद् ग्राह्यम् ॥ ११८ ॥ यद्युत्पत्तिर्न भवति, तुरगविषाणस्य खरविषाणाग्रात् । उत्पत्तिरभूतेभ्यो, ध्रुवं तथा नास्ति भूतानाम् ॥ ११९ ॥ तत्र व्यक्तमलिङ्गा-दव्यक्तादुद्भविष्यति कदाचित् । सोमादीनां तनुसम्भवोऽस्ति यदि नास्ति भूतानि ॥ १२० ॥ असति महाभूतगणे, तेषामेव तनुसम्भवो नास्ति । पशुपतिदिन पतिवत्सो- माण्डपितामहहरीणान्तु || १२१ || बुद्धिमनोभे For Personal & Private Use Only यथार्थ - तत्त्वनिरूपणम् ॥ ॥ १०१ ॥ jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy