SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Jain Education 197 वतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ||२६|| बदर्याः कण्टकस्तीक्ष्ण, ऋजुरेकश्च कुञ्चितः । फलं च वर्तुलं तस्या, वद केन विनिर्मितम् ॥९७॥ अक्षरात् क्षरितः काल-स्तस्माद्वयापक इष्यते । व्यापकादिप्रकृत्यन्तां तां हि सृष्टिं प्रचक्षते ||१८|| अक्षरांशस्ततो वायु-स्तस्मात्तेजस्ततो जलम्। जलात् प्रसूता पृथिवी, भूतानामेष सम्भवः ॥ ९९ ॥ नारायणपराऽव्यक्ता-दण्डमव्यक्तसम्भवम् । अण्डस्यान्तस्त्वमी भेदाः, सप्त द्वीपा च मेदिनी ॥ १०० ॥ गर्भोदकं समुद्राच, जरायुश्चापि पर्वताः । तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः ॥१०१॥ तत्रेहायः स भगवा - नुषित्वा परिवत्सरम् । स्वयमेवात्मना ध्यात्वा, तदण्डमकरोद् द्विधा ॥ ताभ्यां स शकलाभ्यां तु, दिवं भूमिं च निर्ममे ॥ षट्पदी ॥ १०२ ॥ हेतुरहिता भवन्ति हि, भावाः प्रतिसमयभाविनश्चित्राः । भावाहते न भाव्यं, सम्भवरहितं खपुष्पमिव ॥१०३॥ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १०४ ॥ प्रतिसमयं परिणामः, प्रत्यात्मगतश्च सर्वभावानाम् । सम्भवति नेच्छयापि, स्वेच्छा क्रमवर्त्तिनी यस्मात् ॥ १०५ ॥ सत्यं पिशाचाः स्म वने वसामो भेरीं करायैरपि न स्पृशामः । अयं च वादः प्रथितः पृथिव्यां, भेरीं पिशाचाः किल ताडयन्ति ॥ १०६ ॥ ( गद्यम् ) " पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा, मदशक्तिवच्चैतन्यं जलबुद्बुद वज्जीवाश्चैतन्यविशिष्टः कायः पुरुष इति ॥” भौतिकानि शरीराणि, विषयाः करणानि च । तथापि मन्दैरन्यस्य, कर्तृत्वमुपदिश्यते ॥ १०७॥ एतावानेव लो For Personal & Private Use Only आत्मतत्त्वकर्मतत्त्वनिरूपणम् ॥ ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy