SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 296 ॥७॥ श्री लोकतत्त्वनिर्णय ग्रन्थः ॥ आत्मतत्व विषयेविवाद निरूपणम्।। ॥१०॥ स्वकर्मणश्च सम्भूतेः, स्वयम्भूर्जीव उच्यते ॥४२॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥८३॥अच्छेद्योऽयमभेद्योऽयं, निरुपाख्योऽयमुच्यते। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥८४॥ सोऽक्षरः स च भूतात्मा, सम्प्रदायः स उच्यते । स प्राणः स परं ब्रह्म, स हंसः पुरुषश्च सः ॥८॥ नान्यस्तस्मात्परो द्रष्टा, श्रोता मन्ताऽपि वा भवेत् । न कर्ता न च भोक्ताऽस्ति, वक्ता नैव च विद्यते ॥८६॥ चेतनोऽध्यवसायेन, कर्मणा सन्निबध्यते। ततो भवस्तस्य भवे-त्तदभावात् परं पदम् ।।८।। उद्धरेद्दीनमात्मानं, नात्मानमवसादयेत् । आत्मनैवात्मनो बन्धु--रात्मैव रिपुरात्मनः ॥८८॥ सुतुष्टानि च मित्राणि, सुक्रुद्धाश्चैव शत्रवः। न हि मे तत्करिष्यन्ति, यन्न पूर्वकृतं मया॥८९॥ शुभाऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपकुर्वन्ति, दुःखानि च सुखानि च ॥९०॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥९॥ स्वच्छन्दतो न हि धनं न गुणो न विद्या, नाप्येव धर्मचरणं न सुखं न दुःखम् । आरुह्य सारथिवशेन कृतान्तयानं, दैवं यतो नयति तेन प्रथा व्रजामि ।।९२॥ यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवो(हो)पतिष्ठते।तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥९३ ॥ विधिविधानं नियतिः स्वभावः, कालो ग्रहा ईश्वरकर्मदैवम् । भाग्यानि कर्माणि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य ॥१४॥ यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवश्रेष्ठ । दैवमित्यभिधीयते॥९॥कः कण्टकानांप्रकरोति तैक्षण्यं, विचित्रतां वा मृगपक्षिणांच । स्वभा Jain Education For Personal & Private Use Only W ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy