________________
135
लोकस्वरूप निरूपणम् आत्मतत्वे प्रवादिवचांसि॥
गणश्च षोडशकः। तस्मादपि षोडशकात्, पञ्चभ्यः पञ्चभूतानि ॥७०॥ मूलप्रकृतिरविकृति-महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिनं च विकृतिः पुरुषः ॥७१॥ गुणलक्षणो न यस्मात्, कार्यकारणलक्षणोऽपि नो यस्मात्। तस्मादन्यः पुरुषः, फलभोक्ता चेत्यकर्ता च ॥७२|| प्रवर्त्तमानान् प्रकृतेरिमान गुणान् , तमोवृतत्वाद्विपरीतचेतनः । अहङ्करोमीत्यबुधोऽपि मन्यते, तृणस्य कुञ्जीकरणेऽप्यनीश्वरः ॥७३॥ विज्ञप्तिमात्रमेवैत-दसमर्थाऽवभासनात् ॥ यथा तैमिरकस्येह, कोशकीटादिदर्शनम् ॥७४॥ क्रोधशोकमदोन्माद-कामदोषाधुपद्रुताः । अभूतानि च पश्यन्ति, पुरतोऽवस्थितानि च ॥७५॥ “पुरुष एवेदं सर्व, यद्भूतं यच्च भाव्यं । उतामृतत्वस्येशानो, यदन्नेनातिरोहति ॥ यदेजति, यन्नेजति, यद्रे, यदु अन्तिके, यदन्तरस्य सर्वस्य, यदु सर्वस्यास्य बाह्यो(ह्यतः), यस्मात्परं नापरमस्ति किञ्चिद, यस्मानाणीयो, न ज्यायोडस्ति कश्चिद् , वृक्ष इव स्तब्धो, दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषरूपेण सर्व, एक एव हि भूतात्मा, तदा सर्व प्रलीयते॥७६॥" द्वावेव पुरुषौ लोके, क्षरश्चाऽक्षर एव च॥क्षरश्च सर्वभूतानि, कूटस्थोऽक्षर उच्यते ॥७७॥ विद्यमानेषु शास्त्रेषु, ध्रियमाणेषु वक्तृषु। आत्मानं येन जानन्ति, ते वै आत्महता नराः॥७८|| आत्मा वै देवता सर्वः, सर्वमात्मन्यवस्थितम् । आत्मा हि जनयत्येष, कर्मयोगं शरीरिणाम् ॥७९|| आत्मा धाता विधाता च, | आत्मा च सुखदुःस्वयोः । आत्मा स्वर्गश्च नरक-आत्मा सर्वमिदं जगत् ॥८०॥ न कर्तृत्वं न कर्माणि, लोकस्य सृजते प्रभुः । स्वकर्मफलसंयोगः, स्वभावाद्विप्रवर्तते ॥८१॥ आत्मज्ञानस्वभावेन, स्वयं मननसम्भवात् ।
AKSCHORSCRS.
Jain Education
For Personal & Private Use Only
RTww.jainelibrary.org