SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥ ७ ॥ श्री लोकतच्चनिर्णय ग्रन्थः ॥ ॥ ९९ ॥ Jain Education India 194 (युग्मम्) तत्र तस्य शयानस्य, नाभौ पद्मं विनिर्गतम् । तरुणार्कमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥५६॥ भगवान् दण्डकमण्डलु-यज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥५७॥ अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम्। विनता विहङ्गमानां माता विश्वप्रकाराणाम् ||५८|| कद्रूः सरीसृपाणां, सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानां इला पुनः सर्वबीजानाम् ॥ ५९॥ प्रभवस्तासां विस्तर- मुपागतः केचिदेवमिच्छन्ति । केचिद्वदन्त्यवर्णं, सृष्टं वर्णादिभिस्तेन ॥ ६० ॥ कालः सृजति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ ६१ ॥ प्रकृतीनां यथा राजा, रक्षार्थमिह चोद्यतः । तथा विश्वस्य विश्वात्मा, स जागर्ति महेश्वरः ॥ ६२ ॥ अन्यो (ज्ञो) जन्तुरनीशोऽय - मात्मनः सुखदुःखयोः । इश्वरप्रेरितो गच्छेत्, स्वर्गं वा श्वभ्रमेव च ॥६३॥ सूक्ष्मोऽचिन्त्यो विकरणगणः सर्ववित् सर्वकर्त्ता, योगाभ्यासादमलिनधिया योगिना ध्यानगम्यः । चन्द्रार्काग्निक्षितिजलमरुद्दीक्षिताकाशमूर्ति- ध्र्मेयो नित्यं शमसुखरतैरीश्वरः सिद्धिकामैः ||६४|| आसीदिदं तमो भूत-मप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥६५॥ ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः, प्रादुरासीत्तमोनुदः ॥ ६६ ॥ लोकानां स च वृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च विन्यवर्त्तयत् || ६७|| पञ्चविधमहाभूतं, नानाविधदेहनामसंस्थानम् । अव्यक्तसमुत्थानं, जगदेतत् केचिदिच्छन्ति ॥ ६८ ॥ सर्वगतं सामान्यं, सर्वेषामादिकारणं नित्यम् | सूक्ष्ममलिङ्गमचेतन- मक्रियमेकं प्रधानाख्यम् ||६९॥ प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् For Personal & Private Use Only कुवादिवचनेन लोकतन्त्र निरूपणम् ॥ ॥ ९९ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy