SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 187 | एकत्रिंशं तीर्थकद्देशनाष्टकम् ॥ अतःसर्वगताभास-मप्येतन्न यदन्यथा। युज्यते तेन सन्यायात्, संवित्त्याऽदोऽपि भाव्यताम् ।७।२३९/ नाद्रव्योऽस्ति गुणो लोके, न धर्मान्तौ विभुर्न च । आत्मा तद्गमनाद्यस्य, नाऽस्तु तस्माद्यथोदितम् ॥८॥ ३१ वीतरागोऽपि सद्वेद्य-तीर्थकृन्नामकर्मणः । उदयेन तथा धर्म-देशनायां प्रवर्तते ॥१॥ वरबोधित आरभ्य, परार्थोद्यत एव हि । तथाविधं समादत्ते, कर्म स्फीताशयः पुमान् ॥२॥ यावत्सन्तिष्ठते तस्य, तत्तावत्सम्प्रवर्तते । तत्स्वभावत्वतो धर्म-देशनायां जगद्गुरुः ॥३॥ वचनं चैकमप्यस्य, हितां भिन्नार्थगोचराम् । भूयसामपि सत्त्वानां, प्रतिपत्तिं करोत्यलम् ॥४॥ अचिन्त्यपुण्यसम्भार--सामर्थ्यादेतदीदृशम् । तथा चोत्कृष्टपुण्यानां, नास्त्यसाध्यं जगत्त्रये ॥५॥ अभव्येषु च भूतार्था, यदसौ नोपपद्यते । तत्तेषामेव दौगुण्यं ज्ञेयं भगवतो न तु ॥६॥ दृष्टश्चाभ्युदये भानोः, प्रकृत्या क्लिष्टकर्मणाम् । अप्रकाशो ह्युलूकानां, तद्वदत्रापि भाव्यताम् ॥ ७॥ इयं च नियमाज्ञेया, तथानन्दाय देहिनाम् । तदात्वे वर्तमानेऽपि, भव्यानां शुद्धचेतसाम् ॥ ८॥ ३२ कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्यवादिवर्जितः। सर्वबाधाविनिर्मुक्त, एकान्तसुखसङ्गतः।१।२४९। Jan Education ! For Persons & Private Use Only 5 ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy