________________
॥ ६॥ श्री अष्टक प्रकरणम् ॥
॥ ८९ ॥
Jain Education In!
174
क्व खल्वेतानि युज्यन्ते, मुख्यवृत्त्या क्व वा नाह । तन्त्रे तत्तन्त्रनीत्यैव, विचार्यं तत्त्वतो ह्यदः ॥३॥९९॥ धर्मार्थिभिः प्रमाणादे-र्लक्षणं न तु युक्तिमत् । प्रयोजनाद्यभावेन, तथा चाह महामतिः ॥ ४ ॥ प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ ५ ॥ प्रमाणेन विनिश्चित्य, तदुच्येत न वा ननु । अलक्षितात्कथं युक्ता, नान्यतोऽस्य विनिश्चितिः ॥ ६ ॥ सत्यां चास्यां तदुक्त्या किं, तद्वद्विषयनिश्चितेः । तत एवाविनिश्चित्य, तस्योक्तिर्ध्यान्ध्यमेव हि ॥ ७ ॥ तस्माद्यथोदितं वस्तु, विचार्यं रागवर्जितैः । धर्मार्थिभिः प्रयत्नेन तत इष्टार्थसिद्धितः ॥ ८ ॥
१४ तत्रात्मा नित्य एवेति, येषामेकान्तदर्शनम् । हिंसादयः कथं तेषां, युज्यन्ते मुख्यवृत्तितः ॥ १ ॥ निष्क्रियोऽसौ ततो हन्ति, हन्यते वा न जातुचित् । किञ्चित्केनचिदित्येवं, न हिंसास्योपपद्यते ॥ २ ॥ अभावे सर्वथैतस्याः, अहिंसापि न तत्त्वतः । सत्यादीन्यपि सर्वाणि, नाहिंसासाधनत्वतः ॥ ३॥ ततः सन्नीतितोऽभावा-दमीषामसदेव हि । सर्वं यस्मादनुष्ठानं, मोहसङ्गतमेव च शरीरेणापि सम्बन्धो, नात एवास्य सङ्गतः । तथा सर्वगतत्वाच्च, संसारश्चाप्यकल्पितः ॥ ५ ॥१०९॥
॥ ४ ॥
For Personal & Private Use Only
त्रयोदशं धर्म वादा
ष्टकं चतु
दशं एका
न्तनित्य
बाद खंड
|नाष्टकम् ॥
॥ ८९ ॥
www.jainelibrary.org