________________
173
द्वादशं वादा
ष्टकम् ॥
I विशिष्टज्ञानसंवेग-शमसारमतस्तपः । क्षायोपशमिकं ज्ञेय-मव्याबाधसुखात्मकम् ॥ ८॥ ८८ ॥ .१२ शुष्कवादो विवादश्च, धर्मवादस्तथापरः । इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥१॥ अत्यन्तमानिना साधं, क्रूरचित्तेन च दृढम् । धर्माद्वष्टेन मूढेन, शुष्कवादस्तपस्विनः ॥२॥ विजयेऽस्यातिपातादि, लाघवं तत्पराजयात् । धर्मस्येति द्विधाप्येष, तत्त्वतोऽनर्थवर्धनः ॥३॥ लब्धिख्यात्यर्थिना तु स्याद् , दुःस्थितेनाऽमहात्मना। छलजातिप्रधानो यः, स विवाद इति स्मृतः४ विजयो ह्यत्र सन्नीत्या, दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादि-दोषोऽदृष्टविघातकृत् ॥५॥
परलोकप्रधानेन, मध्यस्थेन तु धीमता। स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ॥६॥ | विजयेऽस्य फलं धर्म-प्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च, नियमात्तत्पराजयात् ॥ ७॥ | देशाद्यपेक्षया चेह, विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य, वादः कार्यो विपश्चिता ॥ ८॥ ___१३ विषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः ॥ १॥ पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्।अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ २॥९८ ॥
BREAKSHARACK
For Persona & Private Use Only
Jain Education
Lolliww.jainelibrary.org