SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 16s प्रथम महादेवाष्टकम् ॥ ॥ श्रीहरिभद्रसूरिभगवत्प्रणीतं अष्टकप्रकरणम् ॥ ६ ॥ १ यस्य सङ्क्लेशजननो, रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु, शमेन्धनदवानलः ॥१॥ न चमोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत्। त्रिलोकख्यातमहिमा, महादेवः स उच्यते॥२॥ युग्मम् यो वीतरागः सर्वज्ञो, यः शाश्वतसुखेश्वरः । क्लिष्टकर्मकलातीतः, सर्वथा निष्कलस्तथा ॥३॥ 8| यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां, महादेवः स उच्यते॥४॥युग्मम् एवं सद्वृत्तयुक्तेन, येन शास्त्रमुदाहृतम् । शिववर्त्म परं ज्योत-त्रिकोटीदोषवर्जितम् ॥५॥ यस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि । यथाशक्ति विधानेन, नियमात्स फलप्रदः ॥६॥ सुवैद्यवचनाद्यद्वद्, व्याधेर्भवति सङ्क्षयः । तद्वदेव हि तद्वाक्याद् , ध्रुवः संसारसङ्क्षयः ॥ ७ ॥ एवम्भूताय शान्ताय, कृतकृत्याय धीमते । महादेवाय सततं, सम्यग्भक्त्या नमो नमः ॥८॥ ___ २ द्रव्यतो भावतश्चैव, द्विधा स्नानमुदाहृतम्। बाह्यमाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते ॥१॥ जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते ॥ २ ॥१०॥ RASACARROR JainEducationaMammonal For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy