SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अष्टक प्रकरणम्॥ द्वितीय स्नानाष्टकं तृतीयं पूजा ॥८५॥ ष्टकं च ॥ 106 1 कृत्वेदं यो विधानेन, देवतातिथिपूजनम् । करोति मलिनारम्भी, तस्यैतदपि शोभनम् ॥ ३ ॥११॥ भावशुद्धिनिमित्तत्वात् , तथानुभवसिद्धितः । कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः ॥४॥ अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ॥५॥ ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥ ६ ॥ ऋषीणामुत्तमं ह्येतन्-निर्दिष्टं परमर्षिभिः । हिंसादोषनिवृत्तानां, व्रतशीलविवर्धनम् ॥७॥ स्नात्वाऽनेन यथायोग, निःशेषमलवर्जितः । भूयो न लिप्यते तेन, स्नातकः परमार्थतः ॥८॥ __अष्टपुष्पी समाख्याता,स्वर्गमोक्षप्रसाधनी। अशुद्धतरभेदेन, द्विधा तत्त्वार्थदर्शिभिः ॥ १॥ शुद्धागमैर्यथालाभं, प्रत्यौः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वापि, पुष्पैर्जात्यादिसम्भवैः ॥२॥ अष्टापायविनिर्मुक्त-तदुत्थगुणभूतये । दीयते देवदेवाय, या सा शुद्धेत्युदाहृता ॥३॥ सङ्कीर्णेषा स्वरूपेण, द्रव्याद् भावप्रसक्तितः । पुण्यबन्धनिमित्तत्वाद्, विज्ञेया स्वर्गसाधनी ॥ ४ ॥ या पुनर्भावजैः पुष्पैः, शास्त्रोक्तिगुणसङ्गतैः । परिपूर्णत्वतोऽम्लानै-रत एव सुगन्धिभिः ॥५॥२१॥ Jain Education - For Personal & Private Use Only Twww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy