________________
मीमांसक
मतचार्वाक
मत निरूपणम्।।
164 ॥५॥ जैमिनीयमतस्यापि सङ्केपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सझेपकीर्तनम् ॥७७ ॥
नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ ७८॥ षड्दर्शन षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात् कथ्यते तेन तन्मतम् ॥७९॥ समुच्चयः॥
लोकायता वदन्त्येवं नास्ति दे(जी)वो न निवृतिः।धर्माधर्मों न विद्यते न फलं पुण्यपापयोः॥ ८॥ ॥८४॥ | एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥८१॥
पिब खाद च जातशोभने यदतीतं वरगात्रि तन्नते।नहि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ किश्च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३ ।। पृथ्व्यादिभूतसंहत्यां तथादेहादिसम्भवः । मदशक्तिः सुराङ्गेभ्यो यद्वत्तद्वत्स्थितात्मता ॥ ८४ ॥
तस्मादृष्टपरित्यागाद्यददृष्टे प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८५॥ हा साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने। निरर्था सा मते तेषां सा चाकाशा(धर्म:कामा)त्परा न हि | लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥ ८७ ॥
॥ श्रीहरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः समाप्तः ॥
KA4%95%ACRECORDING
॥८४॥
Jain Education inital
For Personal & Private Lise Only
ww.jainelibrary.org