________________
163
%E0%
य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः॥ ६६ ॥ प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥६७ ॥ जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥ ६८॥ तस्मादतीन्द्रियार्थानां साक्षाद्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ ६९ ॥ अत एव पुरा कार्यों वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥७॥ नोदनालक्षणो धर्मो नोदना तु क्रियां प्रति । प्रवर्तकं वचःप्राहुः स्वःकामोऽग्नि यजेद्यथा॥ ७१ ॥ प्रत्यक्षमनुमानं च शार्दू चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥ तत्र प्रत्यक्षमक्षाणां सम्प्रयोगे सतां सति । आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३ ॥ शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् ॥ ७४ ॥ दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्बलेनासावपत्तिरुदाहृता ॥७५ ॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥७६ ॥
A4%AC
Jain Education in
For Personal & Private Lise Only
B
w
.jainelibrary.org