________________
160
षड्दर्शन समुच्चयः॥ ॥८२॥
| नैयायिकमतस्यैवं समासः कथितोऽधुना । सायाभिमतभावानामिदानीमयमुच्यते ॥ ३३ ॥ |
सांख्यसाङ्ख्या निरीश्वराः केचित कचिदीश्वरदेवताः।सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥३४॥
दर्शन सत्त्वं रजस्तमश्चेति ज्ञेयं तावद्गुणत्रयम् । प्रसादतापदैन्यादिकार्यलिङ्ग क्रमेण तत् ॥३५॥
४निरूपणम्॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते।प्रधानाव्यक्तशब्दाभ्यां वाच्यानित्यस्वरूपिका ॥३६॥ ततः सजायते बुद्धिर्महानिति यकोच्यते।अहङ्कारस्ततोऽपि स्यात्तस्मात् षोडशको गणः॥ ३७॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा ।अन्यानि पञ्च रूपादितन्मात्राणीति षोडश ॥३९॥ युग्मम्॥ रूपात्तेजो रसादापो गन्धाभूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ ४०॥ |
एवं चतुर्विशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् ।। __ अन्यस्त्वकर्ता विगुणस्तु भोक्ता तत्वं पुमान्नित्यचिदभ्युपेतः
॥४१॥ | पञ्चविंशतितत्त्वानि साङ्यस्यैव(वं) भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥ ४२ ॥ प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात्।मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org