________________
=
=
=
=
=
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२ ॥ प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥ शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं वात्मदेहायं बुद्धीन्द्रियसुखादि च ॥ २४ ॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥ प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयोपरमे भवेत् . ॥ २७ यथा काकादिसम्पातात स्थाणुना भाव्यमत्र हि। ऊर्च सन्देहतर्काभ्यांप्रत्ययो निर्णयो मतः॥२८॥ आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ २९ ॥ विजिगीषुकथा या तु च्छलजात्यादिदूषणम् । स जल्पः सा वितण्डा तु या प्रतिपक्षवर्जिता ॥३०॥ हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिष्यते न यैः ॥ ३१ ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसन्यासविरोधादिविभेदतः ॥३२॥
=
*900-%EREHRARACHAR
=
=
=
Jain Education Intel
For Personal & Private Use Only
Law.jainelibrary.org