________________
॥५॥ श्री
दर्शन समुच्चयः ॥
॥ ८१ ॥
Jain Education In
158
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिाहेतोरेवं त्रीणि विभाव्यताम् ॥ ११ ॥ २ बौद्धराद्धान्तवाच्यस्य सङ्क्षेपोयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ अक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३ ॥ तत्त्वानि षोडशाऽमुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाइछलानि च ॥ १५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा । तत्रेन्द्रियार्थसम्पर्कोत्पन्नमव्यभिचारि च व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्षमनुमानं तु तत्पूर्वं त्रिविधं भवेत् ॥ १८ ॥ युग्मम् ॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्यं कारणात्कार्यानुमानमिह गीयते रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि
॥ १६ ॥
॥ १७ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
For Personal & Private Use Only
॥ बौद्धनैयायिक दर्शन
निरूपणम्॥
॥ ८१ ॥
www.jainelibrary.org