SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 16 7 एवं सायमतस्यापि समासः कथितोऽधुना । जैनदर्शनसझेपः कथ्यते सुविचारवान् ॥४४॥ जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥४५॥ सुरासुरेन्द्रसम्पूज्यः सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ॥ ४६ ॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥ | तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान्। शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥ | चैतन्यलक्षणो जीवो यश्चैतद्विपरीतवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥ ४९ ॥ पापं तद्विपरीतं तु मिथ्यात्वाद्याश्च हेतवः। यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥ ५० ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः। अन्योन्यानुगमात् कर्मसम्बन्धो यो द्वयोरपि ॥ ५१ ॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ एतानि तत्र(नव)तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथाभब्यत्वपाकेन यस्यैतत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाजायते मोक्षभाजनम् ॥५४ ॥ Jain Education For Persons & Private Use Only Jww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy