SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 155 Ikj क्रियातिशययोमे च मुक्तिः केवलिनोऽपि हि। नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना ॥१३९॥६८१॥ फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते । तयोरपि च तद्भावः परमार्थेन नान्यथा ॥१४॥ साध्यमर्थं परिज्ञाय यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव तथा चाह बृहस्पतिः ॥१४१ ॥ सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते। तदप्राप्तावुपायत्वं न तस्या उपपद्यते ॥ १४२ ॥ असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति द्वयमन्योन्यसङ्गतम् ॥१४३॥ | अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते। आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते ॥ १४४ ॥ चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥१४५॥ न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविद्दर्भे न रमते ह्यलिः ॥१४६ ॥ मुक्तिश्च केवलज्ञानक्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावेऽप्यभावतः ॥१४७ ॥ न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः ॥१४८॥ बठरश्च तपस्वी च शूरश्चाप्यकृतवणः । मद्यपा स्त्री सतीत्वं च राजन्न श्रद्दधाम्यहम् ॥१४९॥६९१॥ Jain Education For Personal & Private Use Only IDIww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy