________________
॥४॥ शास्त्रवार्ता समुच्चयः॥
RECSCRCk
154 क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते। अपोहो यन्न संस्कारो न च क्षणिक इष्यते ॥१२८॥६७०॥ | एवञ्च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम् । तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम् ॥ १२९ ॥ बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा । आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥ १३०॥ ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन। अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः॥१३१ ॥ ज्ञानं हि फलदं पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसम्भवात्॥ १३२ ॥ ज्ञानहीनाश्च यल्लोके दृश्यन्तेहि महाक्रियाः। ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः ॥ १३३ ॥ ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि । विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि ॥१३४ ॥ केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् । क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौ मता ॥ १३५ ॥ क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ १३६ ॥ | क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां सुखसम्पद्विवर्जिताः ॥ १३७ ॥ क्रियोपेताश्च तद्योगादुदग्रफलभावतः। मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः॥१३८॥६८०॥
॥अष्टमः स्तबकः॥ शब्दार्थयो
र्वाच्य वाचकभाव सम्बन्ध सिद्धिः॥
॥ ७९ ॥
॥ ७९ ॥
Jain Education mhendimonal
For Personal & Private Use Only
www.jainelibrary.org