________________
153
ACCOUGARCA
* वन्ध्येतरदिको भेदो रामादीनां यथैव हि । मृषासत्यादिशब्दानां तद्वत्तद्धेतुभेदतः॥११७॥६५९॥ | परमार्थंकतानत्वेप्युक्त(प्यन्य)दोषोपवर्णनम्।प्रत्याख्यातं हि शब्दानामिति सम्यग्विचिन्त्यताम्।११८॥
अन्यदोषो यदन्यस्य युक्त्या युक्तो न जातुचित् । व्यक्तवर्णं न बुद्धानां भिक्ष्वादि शवरादिवत् ॥ ११९ ॥ ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव । स्वरूपालोचनादिभ्यस्तथादर्शनतो भुवि ॥१२० ॥ | समयापेक्षणं चेह तत्क्षयोपशमं विना । तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥ १२१ ॥
सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः।वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि ॥ १२२ ॥ अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च । वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् ॥ १२३ ॥ अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः। शब्दात्प्रत्यति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ १२४ ॥ अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ १२५ ॥ इन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत्। तथाप्रतीतितो भेदाभेदसिद्धयैव तत्स्थितेः ॥१२६॥ अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते। असत्त्वाद्वस्तुभेदेन बुद्धया तस्यापि बोधतः ॥१२७॥६६९॥
NCE%AESO
Jain Education
a
l
For Personal & Private Lise Only
w
ww.jainelibrary.org