________________
151
*GANGA
वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भवेत्। यथोत्तरं तथादृष्टेरिति चेत्तन्न साम्प्रतम् ॥९५॥६३७॥ सिध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥ ९६ ॥ यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् । यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः ॥ ९७ ॥ आत्मनोऽमी(त्मा नामी) पृथक्कर्म तत्संयोगाद्भवोन्यथा।मुक्तिहिंसादयो मुख्यास्तन्निवृत्तिः ससाधना॥ अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः। यत्रेदं युज्यते सर्व योगिव्यक्तः स आगमः ॥ ९९ ॥ अधिकार्यपि चास्येह स्वयमज्ञो हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा ॥ १० ॥ परचित्तादिधर्माणां गत्युपायाभिधानतः । सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः ॥१०१ ॥ अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः । शब्दार्थयोर्न सम्बन्धो वस्तुस्थित्येह विद्यते ॥ १०२ ॥ न तादात्म्यं द्वयाभावप्रसङ्गाबुद्धिभेदतः । शस्त्रायुक्तौ मुखच्छेदादिसङ्गात्समयस्थितेः ॥ १०३ ॥ अर्थासन्निधिभावेन तदृष्टावन्यथोक्तितः। अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम् ॥१०४ ॥ परमार्थेकतानत्वे शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥ १०५॥ ६४७ ॥
*CRACCOCCALCARRACCI)
N ESCRocies
JanEducation inted
For Persona & Private Use Only
ainelibrary.org