SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ RESCRECACANCS) 143 वक्तृव्यापारभावेऽपि तद्भावे लौकिकं न किम्।अपौरुषेयमिष्टं वो वचो द्रव्यव्यपेक्षया॥७३॥६१५॥ दृश्यमानेऽपि चाशङ्का दृश्यकर्तृसमुद्भवा । नातीन्द्रियार्थद्रष्टारमन्तरेण निवर्तते ॥७४ ॥ पापादत्रेदृशी बुद्धिर्न पुण्यादिति न प्रमा । न लोको हि विगानत्वात्तद्बहुत्वाद्यनिश्चितेः ॥ ७५ ॥ बहूनामपि सम्मोहभावान्मिथ्याप्रवर्तनात् । मानसङ्ख्याविरोधाच्च कथमित्थमिदं ननु ॥७६ ॥ अतीन्द्रियार्थद्रष्टा तु पुमान् कश्चिद्यदीष्यते । सम्भवद्विषयापि स्यादेवम्भूतार्थकल्पना ॥७७॥ | अपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते । कर्तुरस्मरणादीनां व्यभिचारादिदोषतः ॥७८ ॥ नाभ्यास एवमादीनामपि कर्ताऽविगानतः । स्मर्यते च विगानेन हन्तेहाप्यष्टकादिकः ॥ ७९ ॥ स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते । गौरवापादनार्थं च तथा स्यादनिवेदनम् ॥ ८॥ मन्त्रादीनाञ्च सामर्थ्य शाबराणामपि स्फुटम्।प्रतीतं सर्वलोकेऽपि न चाप्यव्यभिचारि तत् ॥८१॥ | वेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत् । स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते ॥ ८२॥ न चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम् ।असाक्षाद्दर्शिनस्तत्र रूपेऽन्धस्येव सर्वथा ॥८॥६२५॥ Jain Education a l For Personal & Private Lise Only Aww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy