SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 142 * * * * धर्मादयोऽषि चाध्यक्षा ज्ञेयभावाद्धटादिवत् । कस्यचित्सर्व एवेति नानुमानं न विद्यते ॥५१॥५९३॥ आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् । प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव ॥ ५२ ॥ हृद्गताशेषसञ्शीतिनिर्णयात्तद्रहे पुनः । उपमाऽन्यग्रहे तत्र न चान्यत्रापि चान्यथा ॥ ५३ ॥ शास्त्रादतीन्द्रियगतेरीपत्त्यापि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते ॥५४ ॥ प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते । तथाप्यभावप्रामाण्यमिति ध्यान्ध्यविजृम्भितम् ॥ ५५ ॥ वेदाधर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम् । विहाय गम्यते सम्यक्कुत एतद्विचिन्त्यताम् ॥ ५६ ॥ न वृद्धसम्प्रदायन छिन्नमूलत्वयोगतः। न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते ॥ ५७॥ प्रामाण्यं रूपविषये सम्प्रदाये न युक्तिमत्। यथानादिमदन्धानां तथात्रापि निरूप्यताम् ॥ ५८ ॥ | न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता । निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययभावतः ॥ ५९ ॥ | नित्यत्वापौरुषेयत्वाद्यस्ति किञ्चिदलौकिकम् । तत्रान्यत्राप्यतः शङ्का विदुषो न निवर्तते ॥ ६॥ तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदिनम् । एवञ्च कृत्वा साध्वेतत्कीर्तितं धर्मकीर्तिना ॥६१॥६०३॥ * Jain Education in For Personal & Private Lise Only K w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy