________________
145
ASASACRECACANCE%
संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे ॥२९॥ ५७१॥ प्रवर्तमान एवञ्च यथाशक्ति स्थिराशयः। शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ॥३०॥ युग्मम्॥ ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम् ॥ ३१ ॥ ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् । ऐदम्पर्येण भावार्थस्तस्यायमभिधीयते ॥३२॥ ज्ञानयोगस्य योगीन्द्रैः पराकाष्ठा प्रकीर्तिता । शैलेशीसंज्ञितं स्थैर्य ततो मुक्तिरसंशयम् ॥ ३३ ॥ धर्मस्तच्चात्मधर्मत्वान्मुक्तिदःशुद्धिसाधनात्।अक्षयोऽप्रतिपातित्वात् सदा मुक्तौ तथास्थितेः॥ ३४ ॥ चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा। सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः ॥३५॥ | न चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते । समयातिक्रमे यद्वत्सिद्धभावश्च तत्र वै ॥३६ ॥ | ज्ञानयोगादतो मुक्तिरिति सम्यग्व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ ३७॥
अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते । तद्राहकप्रमाभावादिति न्यायानुसारिणः ॥ ३८ ॥ प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते। लिङ्गमप्यविनाभावि तेन किञ्चिन्न दृश्यते ॥ ३९ ॥ ५८१॥
ACANCARRIOR
%
Jain Education
a
l
For Personal & Private Lise Only
lww.jainelibrary.org