________________
143
विद्याविद्यादिभेदाच्च स्वतन्त्रेणेव बाध्यते।तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम्॥७॥५४९॥ अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥८॥ न चैतद्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः ॥९॥ अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते ॥१०॥ अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते । उपायाभावतः किं वा न सदा सर्वदेहिनाम् ॥११॥ कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः । अनादिमत्त्वात्कर्मादिपरिणत्यादिकं तथा ॥१२॥ तस्यैव चित्ररूपत्वात्तत्तथोत न युज्यते । उत्कृष्टाद्या स्थितिस्तस्य यजातानेकशः किल ॥१३॥ अत्रापि वर्णवन्त्यन्ये विद्यते दर्शनादिकः । उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः ॥१४॥ दर्शनं मक्तिबीजं च सम्यक्त्वं तत्ववेदनम् ।दःखान्तकृत सुखारम्भः पर्यायास्तस्य कीर्तिताः॥१५॥ अनादिभव्यभावस्य तत्स्वभावत्वयोगतः। उत्कृष्टाद्यास्वतीतासु तथाकर्मस्थितिष्वलम् ॥१६॥ तद्दर्शनमवाप्नोति कर्मग्रन्थि सुदारुणम् । निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि ॥१७॥५५९॥
Jain Education Interior
For Personal & Private Use Only
Dujainelibrary.org