SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ JAL %A000-%ACCORCH 4%AAAAAAA% | अतस्तभेद एवेति प्रतीतिविमुखं वचः । तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम् ॥५१॥५२७॥ | नानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते । तस्यैव हि तथाभावः सूक्ष्मबुद्धया विचिन्त्यताम् ॥ ५२ ॥ तस्यैव तु य(त)थाभावे तदेव हि यतस्तथा । भवत्यतो न दोषो नः कश्चिदप्युपपद्यते ॥ ५३ ॥ इत्थमालोचनं चेदमन्वयव्यतिरेकवत् । वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम् ॥५४ ॥ न च भेदोऽपि बाधायै तस्यानेकान्तवादिनः। जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम् ॥५५॥ प्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । इयं च लोकसिद्धैव तदेवेदमिति क्षितौ ॥५६ ॥ न युज्यते च सन्न्यायाहते तत्परिणामिताम् । कालादिभेदतो वस्त्वभेदतश्च तथागतेः ॥ ५७ ॥ एकान्तैक्ये न नाना यन्नानात्वे चैकमप्यदः । अतः कथं नु तद्भावस्तदेतदुभयात्मकम् ॥ ५८॥ तस्यैव तु तथाभावे कथञ्चिद्भदयोगतः। प्रमातुरपि तद्भावायुज्यते मुख्यवृत्तितः ॥ ५९ ॥ नित्यैकयोगतो व्यक्तिभेदेप्येषा न सङ्गता । तदिहेति प्रसङ्गेन तदेवेदमयोगतः ॥६०॥ सादृश्याज्ञानतोन्याय्या न विभ्रमबलादपि। एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् ॥६१॥५३७॥ C3 4%2-% Jain Educatio n al For Persons & Private Use Only T ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy