________________
139
CC
%
लज्जते बाल्यचरितैर्बाल एव न चापि यत् । युवा न लजते चान्यस्तैरायत्यैव चेष्टते ॥२९॥५०५॥ युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् । अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् ॥ ३०॥ अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ । अन्योन्यव्याप्तितो भेदाभेदवृत्त्यैव वस्तु तौ ॥३१॥ नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते । अतिप्रसङ्गादैक्याच शब्दार्थानुपपत्तितः ॥३२॥ अन्योन्यमिति यदभेदं व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसम्भवः ॥ ३३ ॥ एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम् । व्यसनं वा जडत्वं वा प्रकाशयति केवलम् ॥ ३४ ॥ न्यायात् खलु विरोधो यः स विरोध इहोच्यते । यद्वदेकान्तभेदादौ तयोरेवाप्रसिद्धितः ॥ ३५॥ मृद्रव्यं यन्न पिण्डादिधर्मान्तरविवर्जितम् । यद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥ ३६ ॥ ततोऽसत्तत्तथान्यायादेकं चोभयसिद्धितः। अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः ॥३७॥ जात्यन्तरात्मके चास्मिन्नानवस्थादिदूषणम् । नियतत्वाद्विविक्तस्य भेदादेश्चाप्यसम्भवात् ॥ ३८॥ नाभेदो भेदरहितो भेदो वाऽभेदवर्जितः । केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् ॥३९॥५१५॥
ASSACROSA
Jain Education Intel
For Personal & Private Use Only
Ww.jainelibrary.org