________________
योगदृष्टिसमुच्चयः॥
दीपादृष्टि स्वरूपम्॥
॥६॥
तस्मात्तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥११३ ।। इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः। नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः॥११४॥ ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ॥११५॥ वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ॥११६ ॥ अभिसंधेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥११७॥ रागादिभिरयं चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तृणां तथाबुद्धयादिभेदतः ॥ ११८ ॥ बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥ ११९ ॥ इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं वागमपूर्वकम् । सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते ॥१२०॥ रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्धयादिसिद्धये ॥१२१ ॥ आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् । ॥१२२॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः
SHASKARSA6%
Jan Education inte
For Persons & Private Lise Only
janelbrary.org