________________
न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदविमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥ सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हिं । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥१०३॥ विशेषस्तु पुनस्तस्य कात्स्न्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ॥१०४ ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि। निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम् ॥ १०५॥ यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्भुत्याः सर्व एव ते ॥१०६ ॥ सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०७ ॥ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥ १०८ ॥ चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥१०९॥ संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥११० ॥ चित्रा चायेषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥१११॥ संसारिणां हि देवानां यस्माचित्राण्यनेकधा। स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम्॥ ११२ ॥ प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥१०३॥१
इतोऽप्रे श्लोकाङ्का एकाधिक्येनाऽवसेयाः॥
Jan Education in
Gilujainelibrary.org