________________
10
दीप्रादृष्टि स्वरूपम् ॥
योगदृष्टि- जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ॥ ९१ ॥ समुच्चयः॥
स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः ॥ ९२ ॥ अतोऽग्निः क्लेदयत्यम्बुसंनिधौदहतीति च।अम्ब्बग्निसंनिधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ ९३ ॥ कोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तितः। विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद्दश्यते यतः॥ ९४ ॥ दृष्टान्तमात्रं सर्वत्र यदेव सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥९५ ॥ द्विचन्द्रस्त्रप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥ | सर्व सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनन न किंचन ॥९७ ॥ ४ अतीन्द्रियार्थसिद्धयर्थं यथालोचितकारिणाम्। प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥ ९८॥ है गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ॥ ९९ ॥
एतत्प्रधानः सच्छाद्धः शीलवान् योगतत्परः। जानात्यतीन्द्रियानांस्तथा चाह महामतिः॥ १० ॥ आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥
FACE5%
AL
HANRANH
Jain Education India
For Personal & Private Use Only
IMiww.jainelibrary.org