SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १ = = कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाकृष्टाः कच्छूकण्डूयकादिवत् ॥ ८० ॥ यथा कण्डूयनेष्वेषां धीर्न कच्छृनिवर्तने । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥१॥ आत्मानं पाशयन्त्येते सदासच्चेष्टया भृशम् । पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥ ८२ ॥ धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥८३ ॥ बडिशामिषवत्तुच्छे कुसुखे दारुणोदये । सत्तास्त्यजन्ति सच्चेष्टां धिगहो ! दारुणं तमः ॥८४ अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् । सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः ॥८५ जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः ॥ ८६ बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ॥८७ कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥ ८८ ॥ बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थकरणं येन परिशुद्धमतोऽत्र च ॥८९ ॥ अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ॥ ९ ॥ = = = Jain Education Intel For Personal & Private Use Only MIw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy