________________
योगदृष्टि-
अपाची
दीपादृष्टि स्वरूपम् ।
समुच्चयः॥ ॥४॥
REGAR%
ARRORE
अपायदर्शनं तस्माच्छुतदीपान्न तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ॥ ६९ ॥ अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥ ७० ॥ वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः
॥७१ ॥ अवेद्यसंवेद्यपदमपदं परमार्थतः । पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम्
॥७२॥ वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाप्रवृत्तिबुद्धयापि स्याद्यागमविशुद्धया ॥७३॥ तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥७४ ॥ अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ॥७५॥ क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः। अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥ ७६ ॥ इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् ॥७७ ॥ एतद्वन्तोऽत एवेह विपयोसपरा नराः । हिताहितविवेकान्धा खिद्यन्ते साम्प्रतक्षिणः जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥ ७९ ॥
॥
५
॥
Jain Education Intl
For Personal & Private Use Only
w
ww.jainelibrary.org