SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 132 किञ्च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित्। स्वतन्त्रापेक्षया तस्य न मानं मानमेव यत्।७।४८३॥ संसार्यपि न संसारी मुक्तोऽपि न स एव हि । तदतद्रूपभावेन सर्वमेवाव्यवस्थितम् ॥८॥ ६ त आहुर्मुकुटोत्पादो न घटनाशधर्मकः । स्वर्णान्नचा (वा)ऽन्य एवेति न विरुद्धं मिथस्त्रयम् ॥ ९ ॥ न चोत्पादव्ययौ न स्तो ध्रौव्यवत्तद्धिया गतः। नास्तित्वे तु तयो/व्यं तत्वतोऽस्तीति न प्रमा॥ १० ॥ है न नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः । अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः ॥ ११ ॥ | उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् । तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः ॥ १२ ॥ | तथैतदुभयाधारस्वभावे(व) ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥ १३ ॥ al एकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते ॥१४॥ इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि । अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् ॥ १५ ॥ भावमात्रं तदिष्टं चेत्तदित्थं निर्विशेषणम् । क्षणस्थितिस्वभावं तु न ह्युत्पादव्ययौ विना ॥ १६ ॥ तदित्थम्भूतमेवेति द्राग्नभस्तो न जातुचित्। भूत्वाभावश्च नाशोऽपि तदेवेति न लौकिकम् ॥१७॥४९३॥ For Persons & Private Use Only e Jan Eduction iwww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy