________________
153
SHRAIGARACTICARRAGE
न स्वसन्धारणे न्यायाजन्मानन्तरनाशतः। न च नाशेऽपि सद्युक्त्या तद्धतास्तत्समुद्भवात्॥२६॥४३९॥ अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना ॥२७॥ नासत्सज्जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् ॥ २८॥
भूतिर्येषां क्रिया सोक्ता न चासौ युज्यते क्वचित्। कर्तृभोक्तृस्वभावत्वविरोधादिति चिन्त्यताम् ॥२९॥ ४] नचातीतस्य सामर्थ्यं तस्यामिति निदर्शितम्।न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत्॥३०॥
परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने । सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः ॥ ३१ ॥ नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्ध इष्टश्च खल्लु पण्डितैः ॥ ३२ ॥
यच्चेदमुच्यते बमोऽतादवस्थ्यमनित्यताम् । एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः ॥३३॥ | तदेव न भवत्येतत्तच्चेन्न भवतीति च । विरुद्धं हन्त किञ्चान्यदादिमत्तत्प्रसज्यते ॥ ३४ ॥ क्षीरनाशश्च दध्येव यदृष्टं गोरसान्वितम् । न तु तैलाद्यतः सिद्धः परिणामोऽन्वयावहः ॥ ३५ ॥ नासत्सज्जायते जातु सच्चासत्सर्वथैव हि।शक्त्यभावादिति व्याप्तेः सत्स्वभावत्वहानितः ॥३६॥४४९॥
Jain Education in
For Personal & Private Use Only
Mmww.jainelibrary.org