SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 131 ROCESSOCTS | तथास्वभाव एवासौ स्वहेतोरेव जायते । सहकारिणमासाद्य यस्तथाविधकार्यकृत् ॥ ४॥ ४१७ ॥ न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा । समानकालभावित्वात्तथा चोक्तामदं तव ॥५॥ उपकारी विरोधी च सहकारी च यो मतः । प्रबन्धापेक्षया सर्वो नैककाले कथञ्चन ॥६॥ सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः ॥७॥ न चास्यातत्स्वभावत्वे सफलस्यापि युज्यते । सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् ॥८॥ अस्थानपक्षपातश्च हेतोरनुपकारिणि । अपेक्षायां नियुङ्क्ते यत्कार्यमेतद्बथोदितम् ॥९॥ | यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम् । भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम् ॥ १० ॥ एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् । नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः ॥ ११॥ किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्क्वचित् ॥ १२ ॥ कारणत्वात् स सन्तानविशेषप्रभवस्य चेत् । हिंसकस्तन्न सन्तानसमुत्पत्तेरसम्भवात् ॥१३॥ सांवृतत्वानयोत्पादौ सन्तानस्य खपुष्पवत्। न स्तस्तदधर्मत्वाच्च हेतुस्तत्प्रभ(त्सम्भ)वे कुतः।१४।४२७ SAGACASSACASSE Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy