________________
॥४॥
शासवार्ता समुच्चयः॥
॥ षष्ठः स्तबकः। ४ बौद्धविशेष
मत खण्डनम् ॥
॥६७॥
130 क्लिष्टं विज्ञानमेवासौ क्लिष्टता तत्र(स्य) यद्वशात् । नील्यादिवदसौ वस्तु तद्वदेव प्रसज्यते ॥३२॥४०६॥
मुक्तौ च तस्य भेदेन भावः स्यात्पटशुद्धिवत् । ततो बाह्यार्थतासिद्धिरनिष्टा सम्प्रसज्यते ॥ ३३ ॥ | प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् । तदन्यूनातिरिक्तत्वे केन युक्तिर्विचिन्त्यताम् ॥ ३४ ॥ असत्यपि च या बाह्ये ग्राह्यग्राहकलक्षणे। द्विचन्द्रभ्रान्तिवद्धान्तिरियं वः (नः) क्लिष्टतेति चेत् ॥ ३५॥ अस्त्वेतत्किन्तु तद्धेतुभिन्नहेत्वन्तरोद्भवा । इयं स्यात्तिमिराभावे न हीन्दुद्वयदर्शनम् ॥ ३६ ॥ न चासदेव तद्धेतुर्बोधमात्रं न वा(चा)ऽपि तत् । स(त)दैव क्लिष्टतापत्तिरिति मुक्तिर्न युज्यते ॥ ३७॥ मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका।भावेऽपि सर्वदा तस्याः सम्यगेतद्विचिन्त्यताम् ॥ ३८ ॥
विज्ञानमात्रवादोऽयं नेत्थं युक्त्योपपद्यते । प्राज्ञस्याभिनिवेशो न तस्मादत्रापि युज्यते ॥३९ ॥ । ६ यच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् । नाशहेतोरयोगादि तदिदानी परीक्ष्यते ॥१॥४१४॥
हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्पयन् । नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् ॥ २॥ हेतुं प्रतीत्य यदसौ तथा नश्वर इष्यते । यथैव भवतो हेतुर्विशिष्टफलसाधकः ॥३॥ ४१६ ॥
NAC%ASAROSAGAR
॥६७॥
Jain Education
Maina
For Personal & Private Use Only
www.jainelibrary.org