SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Jain Education 129 उच्यतेऽसाम्प्रतमदः स्वयमेव विचिन्त्यताम् । प्रमाणाभावतस्तत्र यद्येतदुपपद्यते ॥ २१ ॥ ३९५ ॥ एवं न यत्तदात्मानमपि हन्त प्रकाशयेत् । अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः ॥ २२ ॥ व्यवस्थितौ च तत्त्वस्य य ( त ) थाभावप्रकाशकम् । ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ॥ २३ ॥ व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः । तथेत्य भ्रान्तमत्रापि ननु मानं न विद्यते ॥ २४ ॥ भ्रान्ताच्चाभ्रान्तिरूपा न युक्तियुक्त्या व्यवस्थितिः । दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् ॥२५॥ नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः । भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥ २६ ॥ न च प्रकाशमात्रं तु लोके क्वचिदकर्मकम् । दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् ॥ २७ ॥ दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः । न च साध्यस्य यत्तेन शब्दमात्रमसावपि किञ्च विज्ञानमात्रत्वेन संसारापवर्गयोः । विशेषो विद्यते कश्चित्तथा चैतद्वृथोदितम् चित्तमेव हि संसारो रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ३० ॥ रागादिक्लेशवर्गो यन्न विज्ञानात्पृथग्मतः । एकान्तैकस्वभावे च तस्मिन् किं केन वासितम् ॥३१॥४०५॥ १२ For Personal & Private Use Only ॥ २८ ॥ ॥ २९ ॥ • www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy