________________
127
| सत्त्वेऽपि नेन्द्रियज्ञानं हन्त तद्गोचरं मतम् । द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः ॥ १३६ ॥ सर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् । तथाप्यूज़ विशेषेण किञ्चित्तत्रापि वक्ष्यते ॥१३७॥३७४॥
५ विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते । मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते ॥१॥ न प्रत्यक्षं यतो भावालम्बनं न तदिष्यते । नानुमानं तथाभूतसल्लिङ्गानुपलब्धितः ॥२॥ उपलब्धिलक्षणप्राप्तोऽर्थो येनो(यन्नो)पलभ्यते । ततश्चानुपलब्ध्यैव तदभावोऽवसीयते ॥३॥ उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः । तेषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् ॥४
सहार्थेन तजननस्वभावानीति चेन्ननु । जनयत्येव सत्येवमन्यथा तत्स्वभावता ॥५ | योग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना । हन्तैवमपि सिद्धोऽर्थः कदाचिदुपलब्धितः ॥ अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते । न हि लोकेऽश्वमाषादेः सिद्धा पत्त्यादियोग्यता ॥ ७ पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् । उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते अतद्ग्रहणभावैश्च यदि नाम न गृह्यते । तत एतावता सत्त्वं न तस्यातिप्रसङ्गतः ॥ ९ ॥ ३८३
FFFFE
Jain Education International
For Persons & Private Use Only
ww.jainelibrary.org