________________
SEARCASE
125 प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः । अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् ॥ ११४ ॥ तस्मादवश्यमेष्टव्या विकल्पस्यापि कस्यचित् । येन तेन प्रकारेण सर्वथाऽभ्रान्तरूपता ॥ ११५ ॥ सत्यामस्यां स्थितोऽस्माकमुक्तवन्न्याययोगतः । बोधान्वयो दलोत्पत्त्यभावाच्चातिप्रसङ्गतः॥ ११६ ॥ अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोऽप्ययम् । यतश्चेष्टस्ततो नास्मात्तत्रासन्दिग्धनिश्चयः॥ ११७ ॥
ननभावत्वे ध्रवं तदभावसङ्गतिः। तस्यैव भावो नान्यो यजन्याच जननं तथा ॥११८॥ एवं तजन्यभावत्वेऽप्येषा भाव्या विचक्षणैः । तदेव हि यतो भावः स चेतरसमाश्रयः ॥ ११९ ॥ इत्येवमन्वयापत्तिः शब्दार्थादेव जायते । अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् ॥ १२० ॥ तद्रूपशक्तिशून्यं तत्कार्य कार्यान्तरं यथा। व्यापारोऽपि न तस्यापि नापेक्षाऽसत्त्वतः क्वचित् ॥ १२१ ॥ तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् । अन्यत्रापि समानत्वात् केवलं ध्यान्ध्यसूचकम् ॥ १२२ ॥ किश्चान्यत्क्षणिकत्वे व आर्षार्थोऽपि विरुध्यते। विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥ १२३ ॥ इत एकनवते कल्पे शक्त्या में पुरुषो हतः। तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ १२४ ॥
MCGRAAS53454
Jain Education in
For Personal & Private Use Only
Allww.jainelibrary.org