SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थः स्तबकः॥ | बौद्धमत विशेप खण्डनम् ॥ ॥६४॥ 124 ॥४॥ तथेति हन्त कोऽन्वर्थस्तत्तथाभावतो यदि। इतरत्रैकमेवेत्थं ज्ञानं तद्बाहि भाव्यताम् ॥१०३॥३४०॥ तदभावेऽन्यथाभावस्तस्य सोऽस्यापि विद्यते । अनन्तरचिराततिं तत्पुनर्वस्तुतः समम् ॥ १०४ ॥ शास्त्रवार्ता समुच्चयः॥ अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् ॥ १०५ ॥ | अथ कथञ्चिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् ॥१०६ ॥ 18| प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् । कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ १०७ ॥ न पूर्वमुत्तरं चेह तदन्याग्रहणाद्ध्वम् । गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् ॥१०८ ॥ | विकल्पोऽपि तथा न्यायायुज्यते न ह्यनीदृशः। तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच्च सर्वथा ॥ १०९ ॥ नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः । माध्यस्थ्यमलम्ब्यैतच्चिन्त्यतां स्वयमेव तु ॥ ११० ॥ अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः । व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः ॥१११ ॥ तदाकारपरित्यागात्तस्याकारान्तरस्थितिः । बोधान्वयप्रदीर्धकाध्यवसायप्रवर्तकः ॥११२॥ स्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽयमित्यपि। कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसङ्गतः॥११३॥३५०॥ 5-4555OCAॐ554 ॥६४॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy