SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थः श्री स्तबकः॥ बौद्धविशेष RAKASARAK मत १२० ॥४॥18| एतेनैतत्प्रतिक्षितं यदुक्तं सूक्ष्मबुद्धिना । नासतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥५९॥ २९६ ॥ वस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोगतः। सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका ॥ ६॥ शाखवार्ता असदुत्पत्तिरप्यस्य प्रागसत्त्वात्प्रकीर्तिता । नासतः सत्त्वयोगेन कारणात्कार्यभावतः ॥६१ ॥ समुच्चयः॥ प्रतिक्षितं च तद्धेतोः प्राप्नोति फलतां विना । असतो भावकर्तृत्वं तदवस्थान्तरं च सः॥ ६२ ॥ ॥ ६२॥ वस्तुनोऽनन्तरं सत्ता तत्तथा तां विना भवेत् । नभःपातादसत्सत्त्वयोगाद्वति न तत्फलम् ॥ ६३ ॥ असदुत्पत्तिरप्येवं नास्यैव प्रागसत्त्वतः । किन्त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् ॥६४ ॥ एतच्च नोक्तवद्युक्त्या सर्वथा युज्यते यतः। नाभावो भावतां याति व्यवस्थितमिदं ततः॥६५॥ | यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा । जनकत्वेन बुद्धयादेः कल्प्यते साप्यनार्थका ॥६६ ॥ | सर्वेषां बुद्धिजनने यदि सामर्थ्यमिष्यते । रूपादीनां ततः कार्यभेदस्तेभ्यो न युज्यते ॥६७ ॥ रूपालोकादिकं कार्यमनेकं चोपजायते। तेभ्यस्तावद्भय एवेति तदेतच्चिन्त्यतां कथम् ॥ ६८ ॥ प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना । तेषां प्रभूतभावेन तदेकत्वविरोधतः॥ ६९ ॥ ३०६ ॥ खण्डनम् ॥ Jain Education For Persons & Private Use Only P ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy