SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 119 CASSA स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां भेदे तयोः कुतः।नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता॥४८॥२८५॥ न हेतुफलभावश्च तस्यां सत्यां हि युज्यते । तन्निबन्धनभावस्य द्वयोरपि वियोगतः ॥१९॥ कल्पितश्चेदयं धर्मधर्मिभावो हि भावतः । न हेतुफलभावः स्यात्सर्वथा तदभावतः ॥५०॥ न धर्मी कल्पितो धर्मधर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते ॥५१॥ पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ ५२ ॥ तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः । अतिप्रसङ्गतश्चैव तथा चाह महामतिः ॥५३॥ सर्वथैव तथाभाविवस्तुभावादृते न यत् । कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् ॥५४॥ तस्यैव तत्स्वभावत्वकल्पनासम्पदप्यलम् । न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् ॥ ५५॥ तदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ । विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः ॥५६ ॥ अभिन्नदेशनादीनामसिद्धत्वादनन्वयात् । सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता ॥५७ ॥ योऽप्येकस्यान्यतो भावःसन्ताने दृश्यतेऽन्यदा। तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकः ।५८॥२९५। 4%AA%C55 Jain Education Intel For Personal & Private Use Only HILEw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy