SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्री शास्त्रवार्ता समुच्चयः॥ ॥ चतुर्थः स्तबकः॥ बौद्धविशेष मत खण्डनम्॥ ॥६१।। 118 | तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः ॥३७॥ २७४ ॥ सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते । भावो नाभावमतीह ततश्चैतद्व्यवस्थितम् ॥ ३८ ॥ असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः । नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ ३९ ॥ असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः ॥ ४० ॥ अत्यन्तासति सस्मिन् कारणस्य न युक्तितः। विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते ॥४१॥ तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् । अत एवेदमित्थं तु न चैतस्येत्ययोगतः ॥४२॥ वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् । नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् ॥ ४३ ॥ नाम्ना विनापि तत्त्वेन विशिष्टावधिना विना। चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा ॥ ४४ ॥ साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते। कारणश्रयणेऽप्येवं न तत्सत्त्वं तदन्यवत् ॥४५॥ किञ्च तत्कारणं कार्यभूतिकाले न विद्यते । ततो न जनकं तस्य तदा सत्त्वात्परं यथा ॥४६ ॥ अनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः। समं च हेतुफलयो शोत्पादावसङ्गतौ ॥ ४७ ॥ २८४ ॥ SACRACCCCC Jain Education International For Personal & Private Use Only DIRow.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy