SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ॥४॥ शास्त्रवार्ता समुच्चयः। चतुर्थः स्तवकः । बौद्धमते क्षणिकवाद खण्डनम् ॥ ॥६०॥ न तद् भवति चेकिं न सदासत्त्वं तदेव यत् । न भवत्येतदेवास्य भवनं सूरयो विदुः ॥१५॥ कादाचित्कमदो यस्मादुत्पादाद्यस्य तद्धवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात् कथं नु यत्॥ १६ ॥ तदाभूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् । तुच्छताप्तेन भावोऽस्तु नासत्सत्सदसत् कथम् ॥ १७ ॥ खहेतोरेव तजातं तत्वभावं यतो ननु । तदनन्तरभाविवादितरत्राप्यदः समम् ॥१८॥ नाहेतोरम्य भवनं न तुच्छे तत्वभावता । ततः कथं नु तद्भाव इति युक्त्या कर्थ समम् ॥ १९ ॥ स एव भावस्तद्धेतुस्तस्यैव हि तदा स्थितेः। स्वनिवृत्तिस्वभावोऽस्य भावस्यैव ततो न किम् ॥२०॥ ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य तद्विधः। तदभावे न तज्ज्ञानं तन्निवृत्तेर्गातः कथम् ॥ २१ ॥ तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि । गृह्यते तद्गतिस्तेन नैतत् क्वचिदनिश्चयात् ॥ २२ ॥ | समारापादसौ नेति गृहीतं तत्त्वतस्तु तत् । यथाभावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत् ॥ २३ ॥ गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः । मिताहसमारोपादिति तत्त्वव्यवस्थितः ॥२४॥ एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथापाटवाभावादित्यपूर्वमिदं तमः ॥२५॥ SHRISHAIRA*** ॥६ ॥ Jain Education For Persons & Private Use Only www.jainelbrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy