SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Hs = = = = = अत्राप्यभिदधत्यन्ये स्मरणादेरसम्भवात् । बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम् ॥ अनुभूतार्थविषयं स्मरणं लौकिकं यतः । कालान्तरे तथाऽनित्ये मुख्यमेतन्न युज्यते ॥५ सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसङ्गता । दृष्टकौतुकमुद्वेगः प्रवृत्तिः प्राप्तिरेव च ॥६ स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि । शीलानुष्ठानहेतुर्यः स नश्यति तदैव यत् ॥७ सन्तानापेक्षयास्माकं व्यवहारोऽखिलो मतः। स चैक एव तस्मिंश्च सति कस्मान्न युज्यते ॥८ यस्मिन्नेव तु सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कर्पासे रक्तता यथा ॥९॥ एतदप्युक्तिमात्रं यन्न हेतुफलभावतः । सन्तानोऽन्यः स चायुक्त एवासत्कार्यवादिनः ॥१०॥ नाभावो भावतां याति शशशृङ्गे तथागतेः। भावो नाभावमेतीह तदुत्पत्त्यादिदोषतः ॥ ११ ॥ सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तस्थितिः ॥ १२ ॥ स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणास्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥ १३ ॥ क्षणस्थितौ तदैवास्य नास्थितियुक्त्यसङ्गतेः । न पश्चादपि सा नेति सतोऽसत्त्वं व्यवस्थितम् ॥ १४ ॥ = AGRICKASHARABLESS = Jan Education internations For Persons & Private Lise Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy