________________
तृतीयः स्तबकः॥ ईश्वरादिवाद मत खण्डनम्॥
॥४॥ * शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसम्प्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥१५॥
अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः । ॥ १६ ॥ शास्त्रवार्ता
आर्ष च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः समुच्चयः॥
॥१७॥ प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि । महदादिक्रमेणेह कार्यजातं विपश्चितः ॥१८॥ प्रधानान्महतो भावोऽहङ्कारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य तन्मात्रामृतसंहतेः घटाद्यपि पृथिव्यादिपरिणामसमुद्भवम् । नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते ॥ २० ॥ अन्ये तु ब्रुवते ह्येतत्प्रक्रियामात्रवर्णनम् । अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम् ॥२१॥ युक्त्या तु बाध्यते यस्मात्प्रधानं नित्यमिष्यते। तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् ॥ २२ ॥ | तस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा । अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः ॥ २३ ॥ नानुपादानमन्यस्य भावेऽन्यजातुचिद्भवेत् । तदुपादानतायां च न तस्यैकान्तनित्यता ॥ २४ ॥ घटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत्पृथिव्यादिपरिणामैकहतुकम् ॥२५॥
CRICAAAAAA
॥ ५८॥
Jain Education
For Personal & Private Use Only
vww.jainelibrary.org