________________
Jain Education Interdah
Lil
1
अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः । इत्थं प्रयोजनाभावात्कर्तृत्वं युज्यते कथम् नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना स्वयमेव प्रर्वतन्ते सत्त्वाश्चेच्चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् फलं ददाति चेत्सर्वं तत्तेनेह प्रचोदितम् | अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणकः ॥ ८ ॥ कर्मादेस्तत्स्वभावत्वे न किञ्चिद्वाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ॥ ९ ॥ ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति कर्तामिति तद्वाक्ये यतः केषाञ्चिदादरः । अतस्तद्ानुगुण्येन तस्य कर्तृत्वदेशना परमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
For Personal & Private Use Only
11 8 11
1143 11
॥ ६॥
116 11
২৬%% % % % %
ww.jainelibrary.org