________________
॥४॥
तृतीयः
श्री - शाखबातो समुच्चयः।।
स्तबकः॥ एकान्त खभावादि वाद मत खण्डनम् ॥
॥ ५७॥
110 स्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः। तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥ ७४ ॥ ततस्तस्याविशिष्टत्वायुगपद्विश्वसम्भवः । न चासाविति सद्युक्त्या तद्वादोऽपि न सङ्गतः ॥ ७५ ॥ तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन्ननु । मुक्तः स्वभाववादः स्यात् कालवादपरिग्रहात् ॥ ७६ ॥ कालोऽपि समयादिर्यत्केवलः सोऽपि कारणम् । तत एव ह्यसम्भूतः कस्यचिन्नोपपद्यते ॥ ७७ ॥ यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः ॥७८ ॥
अतः कालादयः सर्वे समुदायेन कारणम् । गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः ॥ ७९ ॥ | | न चैकैकत एवेह क्वचित् किञ्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता ॥ ८० ॥ | | स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते। धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः॥ ८१ ॥१९३॥ | ३ ईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते । अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ॥ १॥ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥२॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org